Текст песни Rajalakshmee Sanjay - Ganesh Sahasranamam

  • Исполнитель: Rajalakshmee Sanjay
  • Название песни: Ganesh Sahasranamam
  • Дата добавления: 05.06.2026 | 05:02:40
  • Просмотров: 2
  • 0 чел. считают текст песни верным
  • 0 чел. считают текст песни неверным

Текст песни

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्,
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २॥
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३॥
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ ४॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६॥
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥ ७॥
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ ९॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १०॥
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ ११॥
किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२॥
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ १४॥
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५॥
गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी ।
देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ १६॥
विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७॥
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९॥
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ २०॥
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१॥
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ २३॥
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४॥
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५॥
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६॥
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ २७॥
प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ २८॥
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९॥
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ ३०॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ ३२॥
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४॥
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ ३७॥
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८॥
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९॥
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४०॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ ४१॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ ४२॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ ४३॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४४॥
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ ४५॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४६॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४७॥
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥ ४८॥
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४९॥
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ ५०॥
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५१॥
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५२॥
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ ५३॥
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ ५४॥
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ ५५॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ॥ ५६॥
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ ५७॥
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ ५८॥
सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ॥ ५९॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६०॥
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६१॥
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६२॥
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ ६३॥
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ ६४॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ ६५॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधेयवर्जितः ॥ ६६॥
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६७॥
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६८॥
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ ६९॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७०॥
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ ७१॥
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७२॥
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ ७३॥
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७४॥
एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७५॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ ७६॥
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ ७७॥
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ।
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ७८॥
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७९॥
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८०॥
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।
खल्वाटश‍ृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८१॥
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८२॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ ८३॥
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ ८४॥
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।
चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ ८५॥
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ ८६॥
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ ८७॥
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ।
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ ८८॥
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ ८९॥
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ ९०॥
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ ९१॥
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ ९२॥
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ ९३॥
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९४॥
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९५॥
परं व्योम परं धाम परमात्मा परं पदम् ॥ ९६॥
परात्परः पशुपतिः पशुपाशविमोचनः ।
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ ९७॥
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ ९८॥
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९९॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १००॥
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०१॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ १०२॥
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०३॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०४॥
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०५॥
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०६॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश

Перевод песни

Крик звука и природы – пояс Вселенной.94॥
Нанди дорог Нанди, а Нада расположена посреди Нады.
Он безупречен, чист, вечен, вечен и здоров.95 ॥
Высшее небо — высшая обитель, Высшая Душа — высшая обитель.96॥
Он — господин животных и освобождает их от веревок животных.
Он — полное блаженство Высшего Блаженства и Верховная Личность Бога в Пуранах.97॥
У него лотосоподобное лицо, и он уничтожает невежество простирающегося.
Он превосходит доказательства и убеждения и облегчает страдания ниц.98॥
Он рука феникса, повелитель феникса и свистун, любящий феникса.
Пара ног, которым поклонялись стрелы, с любопытством следила за игрой ребенка.
Брихаспати — это подставка для ног, которой поклоняется Верховная Личность Бога.99॥
Он величайший из всех, предан Абсолютной Истине, предан Абсолютной Истине и дорог тому, кто знает Абсолютную Истину.
Пояс вселенной подобен громкому-громкому крику.100 ॥
Брови отданы богине Бхарге, которая приносит благо и рассеивает страх.
Преданные легко достигают Верховной Личности Бога, который дарует все счастье и является украшением всего счастья.101॥
Великолепная обитель земли дарит наслаждение и видна между бровями.
Мантра — господин мантр, служитель — сумасшедший, а ум — иллюзия.102॥
Повелитель поясных змей движется медленно и у него медлительные глаза.
Он был очень сильным и могущественным, у него была прекрасная жизнь и великий ум 103॥
Ягья — хозяин жертвоприношений, защитник жертвоприношений и податель плодов жертвоприношений.
Он был известен и достижим благодаря йоге.Он совершал жертвоприношения и любил священников 104॥.
Раса - любитель вкуса и краситель вкуса, ему поклоняется Равана.
Он защищает королевство, рождается из драгоценных камней и дарует счастье королевства 105॥
Лакша — повелитель тысяч лакхов, а Лакшья находится в ритме и любит ладду.
Он любил смех и любил смех.106॥
Он превосходен, у него огненное лицо, он достоин поклонения и виден Ведам.
Викарта, создатель глаз вселенной, войди

Смотрите также:

Все тексты Rajalakshmee Sanjay >>>